|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.204. अध्यायः 204
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरंप्रति धुन्धुमारोपाख्यानकथनारम्भः ॥ 1 ॥ उदङ्कनामकमुनेस्तपसा तुष्टेन विष्णुना तस्मै वरदानम् ॥ 2 ॥ तथा विष्णुना उदङ्कंप्रति कुवलाश्वेन धुन्धुनामकासुरघातनविधानपूर्वकमन्तर्धानम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-204-0x(2453)(23955)
[श्रुत्वा तु राजा राजर्षेरिन्द्रद्युम्नस्य तत्तथा।
मार्कण्डेयान्महाभागात्स्वर्गस्य प्रतिपादनम् ॥] 3-204-1(23956)
युधिष्ठिरो महाराज पप्रच्छ भरतर्षभ।
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ॥ 3-204-2(23957)
विदितास्तव धर्मज्ञ देवदानवरक्षसाम्।
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ॥ 3-204-3(23958)
न तेऽस्त्यविदितं किंचिदस्मिँल्लोके द्विजोत्तम।
अथ वेत्सि मुने वंशान्मनुष्योरगरक्षसाम् ॥ 3-204-4(23959)
देवगन्धर्वयक्षाणां किन्नराप्सरसां तथा।
इदमिच्छाम्यहं श्रोतुं तत्त्वे द्विजसत्तम ॥ 3-204-5(23960)
कुवलाश्व इति ख्यात इक्ष्वाकुकुलसंभवः।
कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ॥ 3-204-6(23961)
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम।
विपर्यस्तं यथा नाम कुवलाश्वस् धीमतः ॥ 3-204-7(23962)
[वैशम्पायन उवाच। 3-204-8x(2454)
युधिष्ठिरेणैवमुक्तो मार्कण्डेयो महामुनिः।
धौन्धुमारमुपाख्यानं कथयामास भारत ॥] 3-204-8(23963)
मार्कण्डेय उवाच। 3-204-9x(2455)
हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर।
धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु ॥ 3-204-9(23964)
यथा स राजा ऐक्ष्वाकः कुवलाश्वो महीपतिः।
धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते ॥ 3-204-10(23965)
महर्षिर्विश्रुतस्तात उदङ्क इति भारत।
मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव ॥ 3-204-11(23966)
उदङ्कस्तु महाराज तपोतप्यत्सुदुश्चरम्।
आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभुः ॥ 3-204-12(23967)
तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान्।
दृष्ट्वा महर्षिस्तद्ब्रह्म तुष्टाव विविधैः स्तवैः ॥ 3-204-13(23968)
उदङ्क उवाच। 3-204-14x(2456)
त्वया देव प्रजाः सर्वाः ससुरासुरमानवाः।
स्थावराणि च भूतानि जङ्गमानि तथैव च ॥ 3-204-14(23969)
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते।
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ ॥ 3-204-15(23970)
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत।
बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ॥ 3-204-16(23971)
ऊरू ते पर्वता देव स्वं नाभिर्मधुसूदन।
पादौ ते पृथिवी चैव रोमाण्योषधयस्तथा ॥ 3-204-17(23972)
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः।
प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ॥ 3-204-18(23973)
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर।
योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः ॥ 3-204-19(23974)
त्वयि तुष्टे जगच्छान्तं त्वयि क्रुद्धे महद्भयम्।
भयानामपनेतासि त्वमेकः पुरुषोत्तम ॥ 3-204-20(23975)
देवानां मानुषाणां च सर्वभूतसुखावहः।
त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वया वृताः ॥ 3-204-21(23976)
असुराणां समृद्धानां विनाशश्च त्वया कृतः।
तव विक्रमणैर्देवा निर्वाणमगमन्परम् ॥ 3-204-22(23977)
पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते।
त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः।
आराधयित्वा त्वां देवाः सुखमेधन्ति नित्यशः ॥ 3-204-23(23978)
एवं स्तुतो हृषीकेश उदङ्केन महात्मना।
उदङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु ॥ 3-204-24(23979)
उदङ्क उवाच। 3-204-25x(2457)
पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम्।
पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् ॥ 3-204-25(23980)
विष्णुरुवाच। 3-204-26x(2458)
प्रीतस्तेऽहमलौल्येन भक्त्या तव च सत्तम।
अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज ॥ 3-204-26(23981)
एवं स च्छन्द्यमानस्तु वरेण हरिणा तदा।
उदङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम ॥ 3-204-27(23982)
यदि मे भगवन्प्रीतः पुण्डरीकनिभेक्षण।
धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा।
अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं ममेश्वर ॥ 3-204-28(23983)
भगवानुवाच। 3-204-29x(2459)
सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज ॥ 3-204-29(23984)
प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम्।
त्रयाणामपि लोकानां महत्कार्यं करिष्यसि ॥ 3-204-30(23985)
उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः।
तपस्यति तपो घोरं शृणु यस्तं हनिष्यति ॥ 3-204-31(23986)
[राजा हि वीर्यवांस्तात इक्ष्वाकुरपराजितः]
बृहदश्व इति ख्यातो भविष्यति महीपतिः ॥ 3-204-32(23987)
तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रतः।
स योगबलामास्थाय मामकं पार्तिवोत्तमः।
शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति ॥ 3-204-33(23988)
उदङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत ॥ 3-204-34(23989)
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुरधिकद्विशततमोऽध्यायः ॥ 204 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-204-3 देवदानवराक्षसा इति ध. पाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|